वांछित मन्त्र चुनें

तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥

अंग्रेज़ी लिप्यंतरण

turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkam ānṛcuḥ | asme rayiḥ paprathe vṛṣṇyaṁ śavo sme suvānāsa indavaḥ ||

पद पाठ

तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ । अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥ ८.५१.१०

ऋग्वेद » मण्डल:8» सूक्त:51» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:19» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:10